(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.241. अध्यायः 241
Mahabharata - Adi Parva - Chapter Topics
यतेः सुभद्रागृहे कृष्णेन स्थापनम्॥ 1 ॥
श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिंप्रति अर्जुनादिकुशलप्रश्नः॥ 2 ॥
अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम्॥ 3 ॥
वासुदेवानुमत्या देवक्या सुभद्राश्वासनम्॥ 4 ॥
गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-241-0x(1294)(10374)
स तथेति प्रतिज्ञाय सहितो यतिना हरिः।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत्॥ 1-241-1(10375)
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ।
तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम्।
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्॥ 1-241-2(10376)
पार्थमावेदयामास रुक्मिणीसत्यभामयोः।
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम्॥ 1-241-3(10377)
मनोरथो महानेष हृदि नौ परिवर्तते।
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम्॥ 1-241-4(10378)
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम्।
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः॥ 1-241-5(10379)
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत्।
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः॥ 1-241-6(10380)
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत्।
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम्॥ 1-241-7(10381)
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत्।
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः॥ 1-241-8(10382)
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्।
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया॥ 1-241-9(10383)
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा।
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः॥ 1-241-10(10384)
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी।
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः॥ 1-241-11(10385)
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः।
तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि॥ 1-241-12(10386)
वैशम्पायन उवाच। 1-241-13x(1295)
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम्।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्॥ 1-241-13(10387)
एवमेतेन रूपेण कंचित्कालं धनञ्जयः।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः॥ 1-241-14(10388)
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम्।
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः॥ 1-241-15(10389)
गूहयन्निव चाकारमालोक्य वरवर्णिनीम्।
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः॥ 1-241-16(10390)
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम्।
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम्॥ 1-241-17(10391)
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः।
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः॥ 1-241-18(10392)
अतीतसमये काले सोदर्याणां धनञ्जयः।
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः॥ 1-241-19(10393)
क्रीडारतिपरां भद्रां सखीगणसमावृताम्।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः॥ 1-241-20(10394)
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा॥ 1-241-21(10395)
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा॥ 1-241-22(10396)
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति।
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम्॥ 1-241-23(10397)
अन्योन्यकलहे चापि विवादे चापि वृष्णयः।
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन्॥ 1-241-24(10398)
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन्।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः॥ 1-241-25(10399)
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम्।
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता॥ 1-241-26(10400)
चारणातिथिसंघानां गदस्य च निशम्य सा।
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे॥ 1-241-27(10401)
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम्।
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति॥ 1-241-28(10402)
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात्।
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत॥ 1-241-29(10403)
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ।
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत॥ 1-241-30(10404)
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम्।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा॥ 1-241-31(10405)
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम्।
कथं देशाश्च चरिता नानाजनपदाः कथम्॥ 1-241-32(10406)
सरांसि सरितश्चैव वनानि च कथं यते।
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा॥ 1-241-33(10407)
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन्।
उवाच परमप्रीतस्तथा बहुविधाः कथाः॥ 1-241-34(10408)
निशण्य विविधं तस्य लोके चरितमात्मनः।
तथा परिगतो भावः कन्यायाः समपद्यत॥ 1-241-35(10409)
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम्।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत॥ 1-241-36(10410)
यतिना रचता देशान्खाण्डवप्रस्थवासिनी।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा॥ 1-241-37(10411)
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः॥ 1-241-38(10412)
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः।
नियमे कामभोगानां वर्तमानः प्रिये रतः॥ 1-241-39(10413)
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन्।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः॥ 1-241-40(10414)
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः।
निशम्य वचनं तस्यास्तामुवाच हसन्निव॥ 1-241-41(10415)
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते॥ 1-241-42(10416)
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः॥ 1-241-43(10417)
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि।
निशण्य वचनं तस्य वासुदेवसहोदरी॥ 1-241-44(10418)
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा।
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः॥ 1-241-45(10419)
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः।
यथा तव गतो भावः श्रवणान्मयि भामिनि॥ 1-241-46(10420)
त्वद्गतः सततं भावस्तथा तव गुणैर्मम।
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः॥ 1-241-47(10421)
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव॥ 1-241-48(10422)
वैशम्पायन उवाच। 1-241-49x(1296)
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम्।
ततः सुभद्रा ललिता लज्जाभावसमन्विता॥ 1-241-49(10423)
मुमोह शयने दिव्ये शयाना न तथोचिता।
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी॥ 1-241-50(10424)
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा।
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने॥ 1-241-51(10425)
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः।
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः॥ 1-241-52(10426)
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा।
कृशा विवर्णवदना चिन्ताशोकपरायणा॥ 1-241-53(10427)
निश्वासपरमा भद्रा मानसेन मनस्विनी।
न शय्यासनभोगेषु रतिं विन्दति केनचित्॥ 1-241-54(10428)
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना।
एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत्।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने॥ 1-241-55(10429)
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा।
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत्॥ 1-241-56(10430)
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः।
कन्यापुरमथाविश्य पूजितो भद्रया मुदा॥ 1-241-57(10431)
तं विदित्वा सुभद्रापि लज्जया परिमोहिता।
दिवानिशं शयाना सा नाकरोद्भोजनादिकम्॥ 1-241-58(10432)
एवमुक्ता तया देवी भद्रां शोकपरायणाम्।
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत्॥ 1-241-59(10433)
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने।
राज्ञे निवेदयित्वापि वसुदेवाय धीमते॥ 1-241-60(10434)
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि॥ 1-241-61(10435)
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी।
निवेदयामास तदा भद्रामानकदुन्दुभेः॥ 1-241-62(10436)
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत्।
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम्॥ 1-241-63(10437)
अक्रूराय च कृष्माय आहुकाय च सात्येकः।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः॥ 1-241-64(10438)
वैशम्पायन उवाच। 1-241-65x(1297)
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा।
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा॥ 1-241-65(10439)
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः।
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा॥ 1-241-66(10440)
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः।
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा॥ 1-241-67(10441)
वसुदेवेन सहिताः पुरोहितमते स्थिताः।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत॥ 1-241-68(10442)
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः॥ 1-241-69(10443)
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन्।
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये॥ 1-241-70(10444)
नगरे घोषयास हितार्थं सव्यसाचिनः।
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम्॥ 1-241-71(10445)
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः।
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः॥ 1-241-72(10446)
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः।
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत॥ 1-241-73(10447)
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः।
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः॥ 1-241-74(10448)
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः।
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह॥ 1-241-75(10449)
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः।
ततस्त्वरितमागत्य दाशार्हगणपूजितम्॥ 1-241-76(10450)
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात्।
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह॥ 1-241-77(10451)
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा।
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः॥ 1-241-78(10452)
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि।
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी॥ 1-241-79(10453)
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च।
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्॥ 1-241-80(10454)
संविधानपरा भद्रे भव त्वं वशवर्तिनी॥ 1-241-81(10455)
वैशम्पायन उवाच। 1-241-82x(1298)
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः।
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च॥ 1-241-82(10456)
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः।
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः॥ 1-241-83(10457)
पटहानां प्रणादैश्च भेरीणां निस्वनेन च।
सप्तयोजनविस्तार आयतो दशयोजनम्॥ 1-241-84(10458)
बभूव स महाद्वीपः सपर्वतमहावनः।
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम्॥ 1-241-85(10459)
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः।
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः॥ 1-241-86(10460)
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा।
बभूव परमोपेतस्त्रिविष्टप इवापरः॥ 1-241-87(10461)
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः।
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः॥ 1-241-88(10462)
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः।
विहाराभिगताः सर्वे यादवा हर्षसंयुताः॥ 1-241-89(10463)
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन्।
प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि।
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत॥ ॥ 1-241-90(10464)

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 241 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.