|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.241. अध्यायः 241
Mahabharata - Adi Parva - Chapter Topics
यतेः सुभद्रागृहे कृष्णेन स्थापनम्॥ 1 ॥
श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिंप्रति अर्जुनादिकुशलप्रश्नः॥ 2 ॥
अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम्॥ 3 ॥
वासुदेवानुमत्या देवक्या सुभद्राश्वासनम्॥ 4 ॥
गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-241-0x(1294)(10374)
स तथेति प्रतिज्ञाय सहितो यतिना हरिः।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत्॥ 1-241-1(10375)
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ।
तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम्।
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्॥ 1-241-2(10376)
पार्थमावेदयामास रुक्मिणीसत्यभामयोः।
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम्॥ 1-241-3(10377)
मनोरथो महानेष हृदि नौ परिवर्तते।
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम्॥ 1-241-4(10378)
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम्।
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः॥ 1-241-5(10379)
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत्।
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः॥ 1-241-6(10380)
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत्।
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम्॥ 1-241-7(10381)
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत्।
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः॥ 1-241-8(10382)
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्।
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया॥ 1-241-9(10383)
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा।
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः॥ 1-241-10(10384)
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी।
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः॥ 1-241-11(10385)
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः।
तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि॥ 1-241-12(10386)
वैशम्पायन उवाच। 1-241-13x(1295)
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम्।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्॥ 1-241-13(10387)
एवमेतेन रूपेण कंचित्कालं धनञ्जयः।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः॥ 1-241-14(10388)
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम्।
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः॥ 1-241-15(10389)
गूहयन्निव चाकारमालोक्य वरवर्णिनीम्।
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः॥ 1-241-16(10390)
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम्।
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम्॥ 1-241-17(10391)
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः।
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः॥ 1-241-18(10392)
अतीतसमये काले सोदर्याणां धनञ्जयः।
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः॥ 1-241-19(10393)
क्रीडारतिपरां भद्रां सखीगणसमावृताम्।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः॥ 1-241-20(10394)
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा॥ 1-241-21(10395)
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा॥ 1-241-22(10396)
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति।
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम्॥ 1-241-23(10397)
अन्योन्यकलहे चापि विवादे चापि वृष्णयः।
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन्॥ 1-241-24(10398)
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन्।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः॥ 1-241-25(10399)
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम्।
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता॥ 1-241-26(10400)
चारणातिथिसंघानां गदस्य च निशम्य सा।
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे॥ 1-241-27(10401)
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम्।
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति॥ 1-241-28(10402)
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात्।
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत॥ 1-241-29(10403)
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ।
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत॥ 1-241-30(10404)
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम्।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा॥ 1-241-31(10405)
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम्।
कथं देशाश्च चरिता नानाजनपदाः कथम्॥ 1-241-32(10406)
सरांसि सरितश्चैव वनानि च कथं यते।
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा॥ 1-241-33(10407)
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन्।
उवाच परमप्रीतस्तथा बहुविधाः कथाः॥ 1-241-34(10408)
निशण्य विविधं तस्य लोके चरितमात्मनः।
तथा परिगतो भावः कन्यायाः समपद्यत॥ 1-241-35(10409)
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम्।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत॥ 1-241-36(10410)
यतिना रचता देशान्खाण्डवप्रस्थवासिनी।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा॥ 1-241-37(10411)
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः॥ 1-241-38(10412)
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः।
नियमे कामभोगानां वर्तमानः प्रिये रतः॥ 1-241-39(10413)
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन्।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः॥ 1-241-40(10414)
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः।
निशम्य वचनं तस्यास्तामुवाच हसन्निव॥ 1-241-41(10415)
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते॥ 1-241-42(10416)
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः॥ 1-241-43(10417)
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि।
निशण्य वचनं तस्य वासुदेवसहोदरी॥ 1-241-44(10418)
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा।
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः॥ 1-241-45(10419)
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः।
यथा तव गतो भावः श्रवणान्मयि भामिनि॥ 1-241-46(10420)
त्वद्गतः सततं भावस्तथा तव गुणैर्मम।
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः॥ 1-241-47(10421)
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव॥ 1-241-48(10422)
वैशम्पायन उवाच। 1-241-49x(1296)
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम्।
ततः सुभद्रा ललिता लज्जाभावसमन्विता॥ 1-241-49(10423)
मुमोह शयने दिव्ये शयाना न तथोचिता।
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी॥ 1-241-50(10424)
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा।
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने॥ 1-241-51(10425)
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः।
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः॥ 1-241-52(10426)
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा।
कृशा विवर्णवदना चिन्ताशोकपरायणा॥ 1-241-53(10427)
निश्वासपरमा भद्रा मानसेन मनस्विनी।
न शय्यासनभोगेषु रतिं विन्दति केनचित्॥ 1-241-54(10428)
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना।
एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत्।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने॥ 1-241-55(10429)
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा।
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत्॥ 1-241-56(10430)
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः।
कन्यापुरमथाविश्य पूजितो भद्रया मुदा॥ 1-241-57(10431)
तं विदित्वा सुभद्रापि लज्जया परिमोहिता।
दिवानिशं शयाना सा नाकरोद्भोजनादिकम्॥ 1-241-58(10432)
एवमुक्ता तया देवी भद्रां शोकपरायणाम्।
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत्॥ 1-241-59(10433)
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने।
राज्ञे निवेदयित्वापि वसुदेवाय धीमते॥ 1-241-60(10434)
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि॥ 1-241-61(10435)
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी।
निवेदयामास तदा भद्रामानकदुन्दुभेः॥ 1-241-62(10436)
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत्।
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम्॥ 1-241-63(10437)
अक्रूराय च कृष्माय आहुकाय च सात्येकः।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः॥ 1-241-64(10438)
वैशम्पायन उवाच। 1-241-65x(1297)
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा।
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा॥ 1-241-65(10439)
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः।
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा॥ 1-241-66(10440)
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः।
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा॥ 1-241-67(10441)
वसुदेवेन सहिताः पुरोहितमते स्थिताः।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत॥ 1-241-68(10442)
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः॥ 1-241-69(10443)
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन्।
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये॥ 1-241-70(10444)
नगरे घोषयास हितार्थं सव्यसाचिनः।
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम्॥ 1-241-71(10445)
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः।
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः॥ 1-241-72(10446)
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः।
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत॥ 1-241-73(10447)
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः।
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः॥ 1-241-74(10448)
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः।
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह॥ 1-241-75(10449)
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः।
ततस्त्वरितमागत्य दाशार्हगणपूजितम्॥ 1-241-76(10450)
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात्।
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह॥ 1-241-77(10451)
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा।
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः॥ 1-241-78(10452)
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि।
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी॥ 1-241-79(10453)
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च।
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्॥ 1-241-80(10454)
संविधानपरा भद्रे भव त्वं वशवर्तिनी॥ 1-241-81(10455)
वैशम्पायन उवाच। 1-241-82x(1298)
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः।
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च॥ 1-241-82(10456)
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः।
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः॥ 1-241-83(10457)
पटहानां प्रणादैश्च भेरीणां निस्वनेन च।
सप्तयोजनविस्तार आयतो दशयोजनम्॥ 1-241-84(10458)
बभूव स महाद्वीपः सपर्वतमहावनः।
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम्॥ 1-241-85(10459)
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः।
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः॥ 1-241-86(10460)
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा।
बभूव परमोपेतस्त्रिविष्टप इवापरः॥ 1-241-87(10461)
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः।
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः॥ 1-241-88(10462)
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः।
विहाराभिगताः सर्वे यादवा हर्षसंयुताः॥ 1-241-89(10463)
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन्।
प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि।
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत॥ ॥ 1-241-90(10464)
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 241 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|